CTET Class I to V 12 Jan 2023 Paper

Show Para  Hide Para 
Question Numbers: 129-135
निर्देश: अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिनुत ।
एकः आसीत् प्रेमलः एका चासीत् प्रेमली । काष्ठच्छेदेन श्रान्तः प्रेमलः सायंकाले समागच्छत्, प्रेमलीं चावदत् - प्रेमलि ! अद्य खलु भृशं श्रान्तोऽस्मि । मह्यं जलम् उष्णं कृत्वा देहि । अहं स्नात्वा तस्मिन् जले चरणौ स्थापयामि । तेन मम श्रान्तिः अपगमिष्यति ।
प्रेमली अवदत् – तवानुरोधं कथमहम् अस्वीकुर्याम् ? पश्य तत्र हण्डी उपरि स्थापिता । ताम् अवतारय । प्रेमलः हण्डीमवातारयत् । ततः स अवदत् - अधुना किं करोमि ? प्रेमली अवदत् - निकटे कूपः वर्तते । तत्र गत्वा जलं भृत्वा आनय । प्रेमलः घटे जलं सम्पूर्य आगच्छत् । पुनः प्रेमलीम् अपृच्छत् - इदानीं किम् ?
प्रेमली अवदत् - अधुना चुल्यां काष्ठानि प्रज्वालय । प्रेमलः काष्ठानि प्रज्ज्वाल्य अपृच्छत् - अग्रे किं करवाणि ? प्रेमली अकथयत् - यावत् चुल्ली सम्यक् न ज्वलति यावत् फूत्कुरु, किमन्यत् ? प्रेमलेन चुल्ली सम्यक् प्रज्वालिता । अथ च अपृच्छत् - अधुना किम् करवाणि ? प्रेमली अवदत् - घटात् हण्ड्यां जलं पूरय । ततः हण्डी चुल्याम् उपरि स्थापय ।
हण्डीमवतार्य प्रेमलः पृच्छति - अधुना ? प्रेमली वदति - अधुना हण्डी स्नानगृहे स्थापय । प्रेमलः हण्डी स्नानगृहे निधाय पृच्छति अधुना ? प्रेमली निरदिशत् सम्प्रति स्नानं कुरु । प्रेमलः स्नात्वा अपृच्छत् अधुना किं करणीयम् ?
-
प्रेमली अवदत् – इदानीं हण्डीं यथास्थानं निधेहि । प्रेमलः हण्डी संस्थाप्य शरीरं हस्तेन संस्पृश्य अकथयत् – अरे, कीदृशं पुष्पमिव शरीरं लघु जातम् । यदि त्वं प्रतिदिनं एवमेव जलम् उष्णं कृत्वा मह्यं ददासि तर्हि कियत् शोभनं भवेत् । प्रेमली अवदत् - किमहं न इति कथयामि ? परन्तु अत्र कस्य आलस्यम् ? प्रेमलः अवदत् - आलस्यं तु ममैव परम् अग्रे आलस्यं न करिष्यामि ।
प्रेमली अवदत् - अस्तु ! सम्प्रति आवां भोजनं कुर्वः । 
© examsnet.com
Question : 129
Total: 150
Go to Question: