Test Index
CTET Paper II (Social Science) 18 Jan 2023 Solved Paper
Show Para
Question Numbers: 121-128अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेषु उचिततम् उत्तरं चित्वा लिखत।शतशः सहस्रशः तडागाः सहसैव शून्यात् न प्रकटीभूता। एतेषाम् आयोजनस्य नेपथ्ये निर्मापयितृणाम् एककम्, निर्मातृणां च दशकम् आसीत्। एतत् एककं दशकं च आहत्य शतकं सहस्रं वा रचयतः स्म। परं विगतेषु द्विशतवर्षेषु नूतनपद्धत्या समाजेन यत्किञ्चित् पठितम्। पठितेन तेन समाजेन एककं दशकं सहस्रकञ्च इत्येतानि शून्ये एव परिवर्तितानि। अस्य समाजस्य मनसि इयमपि जिज्ञासा नैव उद्भूता यद् अस्मात्पूर्वम् एतावतः तडागान् के रचयन्ति स्म। अद्य ये अज्ञातनामानः वर्तन्ते, पुरा ते बहुप्रथिताः आसन्। अशेषे हि देशे तडागाः निर्मियन्ते स्म निर्मातारोऽपि अशेषे देशे निवसन्ति स्म।गजधरः इति सुन्दाः शब्दः तडागनिर्मातॄणां सादरं स्मरणार्थम्। राजस्थानस्य केषुचिद् भागेषु शब्दोऽयं अद्यापि प्रचलति। कः गजघरः ? यः गजपरिमाणं धारयति सः गजधरः गजपरिमाणं एव मापनकार्ये उपयुज्यते। समाजे त्रिहस्तपरिमाणात्मिकीं लौहयष्टिं हस्ते गृहीत्वा चलन्तः गजधराः इदानीं शिल्पिरूपेण नैव समादृताः सन्ति।गजधराः वास्तुकाराः आसन्। कामं ग्रामीण समाजो भवतु नागरसमाजो वा तस्य नव निर्माणस्य सुरक्षा प्रबन्धनस्य च दायित्वं गजधराः निभालयन्ति स्म। नगरनियोजनात् लघुनिर्माणपर्यंन्तं सर्वाणि कार्याणि एतेष्वेव आधृतानि आसन्। ते योजनां प्रस्तुतवन्ति स्म, भवितव्यम् आकलयन्ति स्म उपकरणभारान् संगृह्णन्ति स्म। प्रतिदाने ते न याचन्ति स्म यद् दातुं स्वामिनः असमर्थाः भवेयुः। कार्यसमाप्तौ वेतनानि अतिरिच्य गजधरेभ्यः सम्मानमपि प्रदीयते स्म। नमः एतादृशेभ्यः शिल्पिभ्यः।
© examsnet.com
Question : 122 of 150
Marks:
+1,
-0
Go to Question: