Test Index
CTET Paper I (Classes I to V) 17 Jan 2023 Solved Paper
Show Para
Question Numbers: 129-135निर्देशः : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत।कृषिप्रधानोऽयम् अस्माकं भारतदेशः। अत्रत्याः अशीतिततोऽप्यधिकं प्रतिशतं जनाः ग्रामेषु वसन्ति। ग्रामवासिनः प्रायेण कृषकाः भवन्ति। ते प्रातः कालादारभ्य सायं यावत् महता परिश्रमेण क्षेत्रेषु कर्म कुर्वन्ति। स्वक्षेत्राणि हलेन कर्षन्ति तत्र बीजानि वपन्ति। ग्रामीणाः जनाः परिश्रमशीलाः भवन्ति। एतदर्थं ते स्वशरीरं बलवन्तं विधातुं पुष्कलमात्रायां दुग्धं घृतं दधि च खादन्ति। एतकृते ते स्व-स्वगृहेषु गाम्, अजां महिषीं च पालयन्ति। भोजनेषु हरितानि शाकानि प्रयुज्यन्ते यानि ते स्वक्षेत्रेभ्यः एव प्राप्नुवन्ति।केचन गृहाणि परितः अपि शाकानि रोपयन्ति। ग्रामे जलं वायुः च प्रदूषिते न स्तः। भ्रमणाय कुल्यातटं, नद्याः तटम, उपवनानि च सन्ति। जनाः सामाजिकानि, राष्ट्रियाणि धार्मिकाणि च पर्वाणि मिलित्वा सोत्साहं परस्परं सौहार्देन च सम्पादयन्ति। सुखे दुःखे च अन्योन्यं साहाय्यं कुर्वन्तः आनन्दमयं जीवनं यापयन्ति। सत्यमेवोक्तम् - यः कोऽपि भारतं सम्यक् ज्ञातुमिच्छति तेन भारतीयाः ग्रामाः दृष्टव्याः यतोऽहि भारतं नैसर्गिकरूपेण ग्रामेष्वेव दृश्यते।
Go to Question: