Test Index
CTET Paper I (Classes I to V) 12 Jan 2023 Solved Paper
Show Para
Question Numbers: 121-128निर्देशः अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिनुत।"किमिदानीं कर्तव्यम्। कथमेतत् महच्छिद्रं स्थगयितव्यम्।" अथ तस्या एवं विचिन्तयन्त्या भर्त्ता कार्यवशाद्राजकुले पर्युषितः प्रत्यूषे च स्वगृहमभ्युपेत्य द्वारदेशस्थः विविधपौरकृत्योत्सुकतया तामाह “भद्रे! शीघ्रमानीयतां क्षुरभाण्डं येन क्षौरकर्मकरणाय गच्छामि"। सापि छिन्ननासिका गृहमध्यस्थितैव कार्य्यकरणापेक्षया क्षुरभाण्डात्क्षुरमेकं समाकृप्य तस्य अभिमुखं प्रेपयामास। नापितोऽपि उत्सुकतया तमेकं क्षुरमवलोक्य कोपाविष्टः सन् तदभिमुखमेव तं क्षुरं प्राहिणोत्। एतस्मिन्नन्तरे सा दुष्टा उर्द्धबाहू विधाय फूत्कर्तुमना गृहात् निश्चक्राम। “अहो! पापेन अनेन मम सदाचारवर्तिन्याः पश्यत नासिकाच्छेदो विहितः। तत्परित्रायतां परित्रायताम्"। अत्र अन्तरे राजपुरुषाः समभ्येत्य तं नापितं लगुडप्रहारैर्जर्जरीकृत्य दृढबन्धनैर्बद्धा तया छिन्ननासिकया सह धर्माधिकरणस्थानं नीत्वा सभ्यान् ऊचुः “शृण्वन्तु भवन्तः सभासदः। अनेन नापितेन अपराधं विना स्त्रीरत्नमेतद्वयङ्गितं तदस्य यत् युज्यते तत् क्रियताम्'। इति अभिहिते सभ्या ऊचुः - "रे नापित ! किमर्थं त्वया भार्य्या व्यंगिता। किमनया परपुरुषोऽभिलपितः उत स्वित् प्राणद्रोह: कृत:, किंवा चौर्य्यकर्म आचरितम्। तत् कथ्यतामस्या अपराधः?"। नापितोऽपि प्रहारपीडिततनुर्वक्तुं न शशाक। अथ तं तूष्णींभूतं दृष्ट्वा पुनः सभ्या ऊचुः “अहो! सत्यमेतत् राजपुरुषाणां वचः पापात्मा अयम्। अनेन इयं निर्दोषा वराकी दूषिता।
© examsnet.com
Question : 127 of 150
Marks:
+1,
-0
Go to Question: