Test Index
CTET Paper I (Classes I to V) 11 Jan 2023 Solved Paper
Show Para
Question Numbers: 121-128निर्देश: अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेभ्यः समीचीनमुत्तरं चिनुत ।आसीत्कल्याणकटकवास्तव्यो भैरवो नाम व्याधः। स चैकदा मृगमन्विष्यमाणो विन्ध्याटवीं गतवान्। ततस्तेन व्यापादितं मृगमादाय गच्छता घोराकृतिः शूकरो दृष्टः। तेन व्याधेन मृगं भूमौ निधाय शूकरः शरेणाहतः। शूकरेणापि घनघोरगर्जनं कृत्वा स व्याधो मुष्कदेशे हतः संश्छिन्नद्रुम इव भूमौ निपपात। अत उच्यते जलमग्निर्विषं शस्त्रं क्षुधा - व्याधिः गिरेः पतनम् इत्यादिः किञ्चित् निमित्तम् आसाद्य देही स्वप्राणैर्विमुच्यते।अथ तयोः पादास्फालनेन सर्पोऽपि मृतः। अथानन्तरं दीर्घरावो नाम जम्बुकः परिभ्रमन्नाहारार्थी तान्मृतान्मृगव्याधसर्पशूकरानपश्यत्। अचिन्तयच्च 'अहो अद्य महद्भोज्यं मे समुपस्थितम्। अथवा केनचिदुक्तं यथैव अचिन्तितानि दुःखानि देहिनः प्राप्नुवन्ति तथैव सुखान्यपि प्राप्नुवन्ति। मन्येऽहं दैवमत्र कारणम्।तद्भवतु। एषां मांसैर्मासत्रयम्मे सुखेन गमिष्यति। एकमासयावत् नरः पर्याप्तम्, मासद्वयं यावत् मृगशूकरौ एकं दिनं यावत् अहिः पर्याप्तं भविष्यति, अद्य तु मया धनुर्गुणो भक्ष्यः। ततः प्रथमबुभुक्षायामिदं निःस्वादु कोदण्डलग्नं स्नायुबन्धनं खादामि। इत्युक्त्वा तथा कृते सति छिन्ने स्नायुबन्धनं उत्पतितेन धनुषा हृदि निर्भिन्नः स दीर्घरावः पञ्चत्वं गतः। अतोऽहं ब्रवीमि - "कर्तव्यो धर्म संचयो नित्यम्" इत्यादि। तथा च उच्यते धनिनो यद् दानं ददति यच्च उपभोगं कुर्वन्ति तदेव तेषां धनमस्ति। मृत्युमुपागते सति तु तेषां धनानामुपयोगः अन्ये कुर्वन्ति।
Go to Question: