Test Index
CTET Paper I (Classes I to V) 10 Jan 2023 Solved Paper
Show Para
Question Numbers: 121-128अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेभ्यः समीचीनमुत्तरं चिनुत।माता, मातृभूमिश्च द्वे एवैते श्रेष्ठे। बालकस्य कृते मातुः सहजं प्रेम वर्तते। बालकस्य कृते सा सर्वमपि वस्तुजातं त्यक्तं शक्नोति। तस्याः सदैवायमभिलाषः यन्मम बालकः सदा सुखी, गुणवान् विद्वांश्च भवेत्। कृते सा स्वकष्टं नैवं चिन्तयति, सा स्वप्राणानपि दातुं समर्था। पुत्रोऽपि बाल्यादेव मातरं सर्वाधिकं मन्यते। यथा माता बालकं स्वसर्वस्वं मन्यते, तथैव पुत्रोऽपि मातरं स्वसर्वस्वं मन्यते। मानवः जन्म लभते सैव तस्य जन्मभूमिः। सा मानवस्य सर्वदैव आदरणीया जायते । मानवः विदेशे महान्तमादरं सम्मानं वा लभेत, किन्तु जन्मभूमिं सदा स्मरत्येव। स्वदेश दर्शनलालसा तस्य हृदये सर्वदैव जागर्ति। भारतभूरस्माकं देशः, स्वदेशं प्रति अस्माकमनुरागः, आदरश्च स्वाभाविक एव। सर्वोऽपि जनः अद्यत्वे स्वदेशोन्नत्यै संलग्नः दृश्यते। अस्माकं परमो धर्मः।देशं प्रति भक्तिर्देशोन्नत्याः मूलकारणम्। देशभक्ति- भावनया प्रेरितो मानवो देशोन्नयनाय चेष्टते, समाजोद्धाराय प्रयतते, देशदारिद्रयं दूरीकरोति अशिक्षितान् शिक्षयति, व्यापारमुन्नयति, मातृभूमि- रक्षणाय च स्वप्राणान् त्यजति। ये हि स्वार्थसिद्धयर्थं देशस्योपकुर्वाणा इव दृश्यन्ते ते हि मिथ्याभक्ता देशाप- कारिणः। अतो निस्स्वार्था देशभक्तिभावना भव्या न तु विपरीता। महाराणाप्रतापस्य, दुर्धर्षाया लक्ष्मी - देव्याः, तेजस्विन्या दुर्गावत्याश्च पराक्रमवृत्तान्ता अस्मान्नुत्सा- हयन्ति। ते खलु अस्माकं पथप्रदर्शनायालम्।
© examsnet.com
Question : 128 of 150
Marks:
+1,
-0
Go to Question: