Show Para
Question Numbers: 121-128
निर्देशः : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत।
गंगातीरे एकः विशाल वटवृक्षः आसीत्। तस्य शाखासु बहवः खगाः स्नेहेन निवसन्ति स्म। एकदा प्रातःकाले एकः व्याधः तत्रागच्छत्। सः वृक्षस्य अध: जालम् प्रासारयत्। जालस्य उपरि तण्डुलान् विकीर्य स: एकस्मिन् स्थाने अतिष्ठत्। ततः चित्रग्रीवः नामकः कपोतराजः सपरिवारं तत्रागच्छत्। तण्डुलकणान् दृष्ट्वा सः अकथयत् - अत्र निर्जने वने तण्डुलप्राप्तिः कथम् सम्भवा ? अत्र विपत्तिः सन्निकटा दृश्यते। अतः शीघ्रम् उत्पतत। किन्तु तस्य सहचरा तु बुभुक्षिताः आसन्। अतः तस्य वचनानि उपेक्ष्य ते अवदन् - अधुना भोजनस्य अभावः अस्ति। अत्र शोभनाः तण्डुलाः दृश्यन्ते। अपि च कोऽपि न अस्ति अत्र। आगच्छत, खादामः।
कपोतराजः पुनरपि तान सचेतान् कर्तुम् अकथयत् - सहसा क्रियां न विदधीत। अतः सम्यक् विचार्य एव कार्यं कर्तव्यम्। तण्डुललोभात् सर्वे कपोताः शीघ्रमेव तण्डुलान् भक्षयितुं नीचैः आगच्छन् यदा एव ते तण्डुलकणान् खादितुम् आरभन्त तदा एव ते सर्वे जाले बद्धाः अभवन्। ते जालात् बहिः आगन्तुम् बहु प्रायतन्त किन्तु सफलाः न अभवन्।
चित्रग्रीवः व्याधं दृष्ट्वा तान् अवदत् - अधुना यूयं सर्वे मिलित्वा जालम् आदाय शीघ्रं उत्पतत। ते तथैव अकुर्वन्। व्याधः तान् अन्वधावत् किन्तु शीघ्रमेव ते अगोचराः अभवन्। निराशः अगोचर व्याधः स्वगृहम् आगच्छत्।
वनस्य एकस्मिन् स्थाने हिरण्यकः नाम मूषकः अवसत्। सः कपोतराजस्य मित्रम् आसीत्। सर्वे कपोता: जालम् आदाय तस्य समीपम् अगच्छन्। तेषां प्रार्थनाम् आकर्ण्य सः जालम् अकृन्तत्। एवं कपोताः पुनः स्वतन्त्राः अभवन्। परस्परं सहयोगेन एव ते स्वतन्त्राः सफलाः च अभवन्। सत्यमेव कथ्यते - समवायो हि दुर्जयः।

Go to Question: