Test Index
CTET Class I to V 17 Jan 2023 Paper
Show Para
Question Numbers: 121-128 निर्देशः अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिनुत।राज्ञः भोजस्य राज्ये दुर्मुखः नामकः एक चौरः निवसति स्म। किन्तु अधिकतरं सः चौर्यं कर्त्तुं न पारितवान्। अनेन दुःखी सः प्रतिवेशि- राज्ये प्रवेष्टुं रात्रौ प्रचलितः। मध्ये एकं साध्वाश्रम प्राप्य तत्र एवं स्थितः। साधुः तस्य भव्यं आतिथ्यं कृतवान्। अनेन प्रसन्नः सः चौरः प्रातः तं प्रणम्य तां विद्यां शिक्षयितुं प्रार्थयत, यया सः भव्यां भोग-सामग्रीं निष्पादितवान्। साधुः तथा प्रतिज्ञातवान् तम् उपदिष्टवान् च - "त्वं कम् अपि व्यवसायं कुर्याः, किन्तु असत्यं कदापि न वदेः न च यस्य अन्नं भक्षयेः तं हानिं प्रापयेः।"चौरः तथा स्वीकृत्य राज्ञः भोजस्य एव प्रासादे चौर्यं कर्तुं ततः परावृत्तः। अर्द्धरात्रौ सः सामन्त-वेशं धृत्वा राज- प्रासादं प्रविष्टः। प्रहरिणा पृष्टः सः आत्मानं चौरम् एव पर्यचाययत्। किन्तु प्रहरी तथा न विश्वस्य तं प्रवेशात् नैव निवारितवान्। निर्बाधं चौरः भोजस्य शयन कक्षे प्रविष्टः। तदा भोजः नगरी - सुरक्षा-व्यवस्थां द्रष्टुं निर्गतः आसीत् चौरः सर्वां स्वाभीष्टां सामग्रीं सङ्कलितां कृत्वा चलितुम् एव उद्यतः अभवत् यत् तत्र एकस्मिन् पात्रे रक्षिते मिष्टान्ने तस्य दृष्टिः न्यपतत्। सः तद् भक्षितवान्। भक्षणोत्तर तस्य स्मृतौ साधोः वाक्यम् आयातं यत् ‘यस्य अन्नं भक्षयेः तं हानिं न प्रापयेः।' चौरः सर्वां सामग्रीं तत्र एव परित्यज्य रिक्त-हस्तः ततः निर्गतः। पश्चात् परावृत्त: भोजः कक्षे इदं दुर्दृश्यं दृष्टवान्, तदा प्रातः 'दुर्मुखस्य एव इदं कृत्यं स्यात्' इति अनुमाय तम् आहूतवान। राज्ञा पृष्टः च सः सर्वं सत्यम् अकथयत्। अनेन सन्तुष्टः राजा तं भूरि भूरि प्रशंसितवान्, स्वकीये रक्षा - विभागे च नियुक्तवान्। इदानीं दुर्मुखः अपि सुमुखः भूत्वा चौर्य-कर्म पर्यत्यजत् इति।
© examsnet.com
Question : 127 of 150
Marks:
+1,
-0
Go to Question: