CTET Class I to V 11 Jan 2023 Paper

Show Para  Hide Para 
Question Numbers: 129-135
निर्देश:- अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेभ्यः समीचीनमुत्तरं चिनुत ।
एकदा निभृतं शृगालो बूते - 'सखे! अस्मिन्वनैकदेशे सस्यपूर्णक्षेत्रमस्ति। तदहं त्वां नीत्वा दर्शयामि।' तथा कृते सति मृगः प्रत्यहं तत्र गत्वा सस्यं खादति। अथ क्षेत्रपतिना तद्दृष्टवा पाशो योजितः। अनन्तरं पुनरागतो मृगः पाशैर्बद्धोऽचिन्तयत् - 'को मामित: कालपाशादिव व्याधपाशात्त्रातुं मित्रादन्यः समर्थः?' अत्रान्तरे जम्बुकस्तत्रागत्योपस्थितोऽचिन्तयत् - फलिता तावदस्माकं कपटप्रबन्धेन मनोरथसिद्धिः एतस्योन्कृन्त्यमानस्य मांसासृग्लिप्तान्यस्थीनि मयावश्यं प्राप्तव्यानि। तानि बाहुल्येन भोजनानि भविष्यन्ति।' मृगस्तं दृष्ट्वोल्लासितो ब्रूते – 'सखे! छिन्धि तावन्मम् बन्धनम्, सत्वरं त्रायस्व माम्। यतो हि इदमुच्यते लोके - आपतु मित्रस्य परीक्षा भवति, युद्धेषु वीरस्य, ऋणे जाते सति शुचितायाः व्यसनेषु बान्धवानाम् च परीक्षा जायते। अन्यच्च य उत्सवे, व्यसने, दुर्भिक्षे, राष्ट्रविप्लवे, राजद्वारे, श्मशाने च सहाय्यं भवति स एव वास्तविकं मित्रं भवति।
जम्बुको मुहुर्मुहुः पाशं विलोक्याचिन्तयत् 'दृढस्तावदयं बन्धः।' ब्रूते च ‘सखे! स्नायुनिर्मिता ते पाशाः। तदद्य भट्टारकवारे कथमेतान्दन्तैः स्पृशामि? मित्र! यदि चित्ते नान्यथा मन्यसे तदा प्रभाते यत्त्वया वक्तव्यं तत्कर्तव्यम्' इत्युक्त्वा तत्समीप आत्मानमाच्छाद्य स्थितः सः। अनन्तरं स काकः प्रदोषकाले मृगमनागतमवलोक्येतस्ततोऽन्विष्य तथाविधं दृष्ट्वोवाच - 'सखे! किमेतत् '। मृगेणोक्तं 'अवधीरितसुहृद्वाक्यस्य फलमेतत्। केनापि सत्यमेव भणितं यद्यो मित्राणां हितकामानां सुहृदां भाषितमवहेलयति तस्य विपत्संनिहिता भवति तथा च स नरः शत्रुनन्दनो भवति।
© examsnet.com
Question : 134
Total: 150
Go to Question: