Show Para
Question Numbers: 129-135
निर्देश : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेभ्यः समीचीनमुत्तरं चिनुत।
व्याकरणसम्बन्धिदोषादिरहिता व्यवस्थित-क्रियाकारक- विभागसमन्विताया भाषा सा संस्कृतभाषेति कथ्यते। इयं हि भाषा सर्वदोषशून्या अस्ति, अतः देववाणी, गीर्वाण- भारती, अमरभाषा इत्यादिभिः शब्दैः व्यवह्रियते। भाषागतमुदारत्वं मार्दवं मनोज्ञत्वं चास्याः वैशिष्टयम्। सेयं संस्कृतभाषा जगतः सर्वासु भाषासु प्राचीनतमा, सर्वोत्कृष्ट-साहित्य-संयुक्ता च वर्तते । अनन्तानन्तवर्षेषु व्यपगतेष्वपि अस्या माधुर्यम्, उदारत्वं च नाद्यापि विकृतम्। पाश्चात्त्यदेशीया विचारशीलाः कीलहार्न-मैक्समूलर-मैकडानाल्ड-कीथादयः विद्वांसः संस्कृत-भाषायाः प्रशंसामकुर्वन्। सर्वासामार्य-भाषाणामुत्पत्तिः बभूव। पुरा सर्वे जनाः संस्कृतभाषयैवाभाषन्त। अतः सर्वमपि प्राक्तनं साहित्यं संस्कृतभाषायामेव उपलभ्यते। सर्वे प्राचीनग्रन्थाः चत्वारो वेदाश्च संस्कृत भाषायामेव सन्ति। वेदेषु मानवकर्तव्याकर्तव्ययोः सम्यक् निर्धारणमस्ति। ततो वेदानां व्याख्यानभूता ब्राह्मणग्रन्थाः वर्तन्ते। तदनु अध्यात्मविषयप्रतिपादिका उपनिषदो विद्यन्ते, यासां गरिमा पाश्चात्त्यबहुज्ञैरपि गीयते। ततोऽस्माकं गौरवग्रन्थाः षड्दर्शनानि सन्ति। एषामद्यापि विश्वस्य साहित्ये महत्त्वं वर्तते। ततः श्रौतसूत्राणां गृह्यसूत्राणां वेदव्याख्यानभूतानां षडङ्गानां गणनास्ति। महर्षिवाल्मीकिरचितस्य रामायणस्य, महर्षि व्यासरचितस्य महाभारतस्य निर्माणमपूर्वघटनैव वर्तते विश्वसाहित्ये। तत्र दुर्लभस्य कवित्वस्य, नैसर्गिक-सौन्दर्यस्य, अध्यात्मज्ञानस्य नीतिशास्त्रस्य च दर्शनं जायते। ततो भासाश्वघोष-कालिदास-भवभूति-दण्डि-बाण-सुबन्धु-हर्षप्रभृतयो महाकाव्यो नाट्यकाराश्च समायान्ति, येषामुदयेन न केवलमार्यावर्तः, अपितु सकलमेतत् जगत् धन्यमात्मानं मन्यते। कवि - वराणा - मेतेषां वर्णने विद्वांसोऽपि न क्षमाः श्रीमद् भगवतगीता, स्मृतिग्रन्थाः पुराणानि च संस्कृतसाहित्यस्य महात्म्यं प्रकटयन्ति।
संस्कृतसाहित्यं भारतस्य गौरवमुद्धोषयति। समस्तं देशं च एकतासूत्रे बध्नाति तत्। अस्य साहित्यस्य प्रचारः प्रसारश्च नितान्तं लाभप्रदः।

© examsnet.com
Question : 134
Total: 150
Go to Question: