Test Index
CTET 2 Social Science 19 Jan 2023 Paper
Show Para
Question Numbers: 121-128
निम्नलिखितं गद्यांशं पठित्वा प्रश्नानां यथोचितं उत्तराणि देयानि।
भारतीयसंस्कृतेर्महत्त्वं विश्वस्मिन् विश्वे स्वीक्रियते। भारतवर्षस्य प्राचीनसाहित्यं विपुलाकारं विविध विद्यासम्पन्नं चास्ति। वेदानां महत्त्वं, प्राचीनत्वं सर्वोत्कृष्टत्वं च न केवलं भारतवर्षे, अपितु विदेशेष्वपि सम्मानपूर्वकं निर्विवादं च शीर्षाण्यवनम्य मन्यन्ते। उपनिषद्ग्रन्थेषु यज्जीवनस्याध्यात्मदर्शनं वर्णितं तदतुलनीयम् अस्ति। प्राचीनकाले विज्ञानमपि चरमावस्थायाम् आसीत्। संख्यानां प्रादुर्भावः प्रयोगश्च सर्वप्रथमं भारतवर्षे एवाभवत्। शुल्बसूत्रेषु ज्यामितिशास्त्रस्य, त्रिकोणमितिशास्त्रस्य, गणितस्य च विकासः भारतवर्षे एवाभवत् इत्येतन्निर्विवादं स्वीक्रियते। शस्त्रास्त्राणां वर्णनं यद् रामायणे महाभारते वोपलभ्यते तेन प्रमाणीभूयते यत् शिल्पशास्त्रेऽपि भारतवर्षे भूयसी प्रगतिरभवत्।
परन्तु चिन्तनीय विषयोऽयमस्ति यत् सा प्रगतिः कुत्र गता। भारतवर्षे साम्प्रतं यानि वस्तूनि प्रयुज्यन्ते तेषां निर्मातारो विदेशीया एव सन्ति। वयं तामेव विद्यां शिक्षामहे यस्य प्रमाणं वैदेशिकात् प्रदेशात् आयाति। स्पष्टमेव वैदेशिकानि वस्तूनि बहुप्रचलने सन्ति। अयमेवास्माकं चिन्तायाः विषयः। साधनसम्पन्ना अपि वयं केनकारणेन पराश्रिताः स्मः। किमर्थमस्माकं रक्षोपकरणानि विदेशेभ्यः क्रीयन्ते। वैदेशिकैः शस्त्रास्त्रैः वयं कियत्कालपर्यन्तं योद्धुं सक्षमाः। एषा सर्वकारस्यापि चिन्ता वर्तते।

Go to Question: