Show Para
Question Numbers: 129-135
निम्नलिखित गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि देयानि -
अस्ति विन्ध्याटव्यां महातपा नाम मुनिः। तेनैकदा उटजद्वारे काकमुखाद् भ्रष्टो मूषकशावको दृष्टः। ततो जातकारुण्येन तेन मुनिना स नीवारकणैः परिवर्धितः।
एकदा तं मूषकं खादितुमनुधावन् कश्चित् बिडालो मुनिना दृष्टः। तदा तपः प्रभावात् तेन मुनिना मूषको बलिष्ठो बिडालः कृतः। अथ कदाचित् कुक्कुरात् भीतः स विडालः धावित्वा मुनिः समीपमागच्छत्। बिडालोऽयं कुक्कुरात् विभेति इत्यवगम्य असौ मुनिना कुक्कुरः कृतः। ततः प्रभृति स कुक्कुरः इतस्ततः निर्भयं भ्रमति स्म। अथैकदा व्याघ्रात् भीतः कुक्कुरः मुनेः समीपमागच्छत्। कुक्कुरस्य व्याघ्रात् महत्भयम् इति मत्वा तेन स व्याघ्रः कृतः। परं व्याघ्रमपि मूषकनिर्विशेषं एव पश्यति स मुनिः। अतः सर्वेऽपि तत्रत्याः जनास्तं व्याघ्रं दृष्ट्वा वदन्ति -
'अनेन मुनिना मूषकोऽयं व्याघ्रतां नीतः।" एतच्छ्रुत्वा स व्याघ्रः सव्यथोऽचिन्तयत्- "यावदयं मुनिर्जीवति तावदिदं मम स्वरूपाख्यानम् अपकीर्तितम् एव स्थास्यति।" इत्थं विचिन्त्य स मुनिम् एव हन्तुम् उद्यतोऽभवत्। मुनिः तस्य दुर्मतेः मनोभावम् अभीष्टं च ज्ञात्वा कमण्डलो : जलमादाय मंत्रपाठं कृत्वा तम् एवं शशाप-
यस्मादेवमपापं मां पाप हिंसितुमिच्छसि ।
तस्मात् स्वयोनिमापन्नो मूषकस्त्वं भविष्यसि ।।
इत्थं शप्त्वा मुनिस्तं पुनर्मूषकं चकार ।

Go to Question: