Show Para
Question Numbers: 121-128
निम्नलिखितं गद्यांश पठित्वा प्रश्नानाम् उत्तराणि देयानि-
प्राचीनकाले भारते अनेके वैज्ञानिकाः अभवन्। एतेषाम् आविष्काराः अद्यापि विस्मयं जनयन्ति। तेष्वेव प्राक्तनवैज्ञानिकेषु आर्यभटः अन्यतमः। अस्य सम्माने भारतसर्वकारेण स्वस्य अन्तरिक्षोपग्रहस्य 'आर्यभट' इति नाम कृतम्।
असौ महान् वैज्ञानिक: 476 ईसवीये वर्षे पाटलिपुत्रे जातः। अस्य ग्रन्थस्य नाम 'आर्यभटीयम्' अस्ति। इदम् समस्तेऽपि जगति खगोलविज्ञानस्य सुविख्यातं पुस्तकम् अस्ति।
ज्योतिषशास्त्रस्य विशिष्टसिद्धान्तेषु अस्य महावैज्ञानिकस्य सुमहद् योगदानम् अस्ति। अनेन अङ्कगणित बीजगणित भूमिति - त्रिकोणमिति - ग्रहगति खगोलविज्ञान प्रभृति विषयेषु मौलिकानि चिन्तनानि प्रस्तुतानि। तस्मिन् युगे एवं विधस्य अनुसन्धानस्य कृते साधनानि विरलानि आसन्। तथापि अनेन विदुषा विस्मयकारिणः आविष्काराः कृताः। अनेनैव सर्वप्रथमं साधितं यत् पृथिवी चलति। तेनैव इदम् उदाहृतं यद् गतिशीलायां नौकायाम् उपविष्टः मानवः नौकां स्थिरां मनुते, अथ च अन्यान् पदार्थान् गतिशीलान् वेत्ति। एवमेव गतिशीलायां पृथिव्याम् अवस्थितः मानवः पृथिवीं स्थिरां मनुते सूर्यादि-ग्रहान् गतिशीलान् च वेत्ति।
अत्यन्तं दूरवर्तिनां ग्रहाणां गतिं प्रभावं वैशिष्ट्यं च नितरां सूक्ष्मेण विधिना अयं कथं ज्ञातवान् इति कल्पनातीतम्। गणितविद्यायाः महती संख्या कथम् अल्पीयसा अक्षरसङ्केतेन ज्ञातव्या, इत्यपि आर्यभटेन अतिप्राचीनकाले आविष्कृतम्। यथा यथा अनुसन्धानानि भविष्यन्ति तथा तथाऽस्य सूक्ष्माणामाविष्काराणां वैशिष्ट्यानि चमत्कृतिं जनयिष्यन्ति। धन्या संस्कृतभाषा यस्याम् एवंविधानां वैज्ञानिकानां विचाराः आविष्काराश्च विराजन्ते।

Go to Question: