Show Para
Question Numbers: 129-135
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत ।
पूर्वं कलिङ्गराज्ये सत्यगुप्तः नाम राजा आसीत्। तस्य पुत्रः कमलापीडः। राजपुत्रः एषः बहु अध्ययनं कृतवान् आसीत्। यद्यपि एषः अतीव बुद्धिमान् किन्तु अहङ्कारी। सः सर्वदा महाराजम् एवं उपहसति स्म। महाराजस्य समीपे विशालं सैन्यम् आसीत्। कदाचित् राजकुमारः सेनाविषये उक्तवान्- “पितः! एतत् सैन्यं व्यर्थम्। अस्य सैन्यस्य वर्धने वृथा धनव्ययः। किम् एतेन प्रयोजनम्?" इति। 'पुत्र! भवान् न जानाति। युद्धकाले सैन्यम् अत्यावश्यकम्। तदर्थं सर्वदा सैनिकानां रक्षणं पोषणं च करणीयम्। तथा कृतं चेदेव सैनिकाः युद्धकाले प्राणापायम् अविगणय्य युद्धं कुर्वन्ति। राज्यस्य रक्षणं कुर्वन्ति" इति उक्तवान् राजा।
“युद्धसमये एवं धनं दत्तं चेत् बहवः जना लभ्यन्ते। अन्नक्षेपणेन यथा काकाः आगच्छन्ति तथा धनदानेन जनाः अहमहमिकया आगच्छन्ति।" इति सगर्वम् उक्तवान् राजकुमारः। तदा राजा तूष्णीं स्थितवान्। राजा तद्दिने रात्रौ पुत्रम् एकत्र नीतवान्। तत्र अन्नं स्थापयित्वा पुत्रम् उक्तवान्। "पुत्र ! इदानीं काकान् आह्वयतु" इति।" रात्रौ कथं वा काकाः आगच्छन्ति? किं भवान् मूर्खः इति पृष्टवान् राजकुमारः। “पुत्र! न अहं मूर्खः। भवतः अविवेकस्य निवारणार्थम् अहम् एवं कृतवान्। यथा अन्नदाने कृते अपि काकाः न आगच्छन्ति तथैव युद्धकाले धने दत्ते अपि जनाः न लभ्यन्ते। अतः देशरक्षणार्थं सर्वदा सैन्यं रक्षणीयम्।" इति पुत्रम् उपदिष्टवान् राजा।

Go to Question: