Test Index
CTET 2 Math and Science 24 Jan 2023 Paper
Show Para
Question Numbers: 121-128 अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिंत्वा लिखत ।धेनुः भारतीयसंस्कृतेः प्रतीकम्। भारतीयानां कृते धेनुः न केवलं पशुः अपि तु जीवनपोषिणी शक्तिः अस्ति। सा अस्माकं कृषिं पोषयति, आर्थिकस्थितिं च वर्धयति। आयुर्वेदस्य वचनानुसारं धेनोः दुग्धम् आरोग्याय हितकरं, पौष्टिकाहारः च। गोदुग्धपानेन रोगनिरोधशक्तिः, बलम्, तेजः च लभ्यन्ते। दुग्धात् उत्पन्नं तक्रं घृतं च स्वास्थ्यवर्धकम् इति वैद्याः कथयन्ति। आधि-व्याधि-निवारणाय दुग्ध-दधि-तक्र-नवनीत- घृतानाम् उपयोगः आयुर्वेदे निरूपितः। धेनवः न केवलं दुग्धदानेन उपकुर्वन्ति अपि तु कृषिकार्ये भारवहनार्थं साधनरूपेण अपि सहायकाः भवन्ति। श्रीकृष्णः कश्चन गोपबालः आसीत्। तस्य वेणुवादनेन आकृष्टाः धेनवः तं परितः तिष्ठन्ति स्म। सः गोवत्सैः सह क्रीडति स्म।गोमयम् इन्धनरूपेण उपयुज्यते । तेन इदानीं विद्युत् अपि उत्पद्यमाना अस्ति। अनेकै: खनिजैः युक्तं गोमयम् अत्युत्तमम् उर्वरकम् अस्ति। गोमूत्रं गोमयं च भूमेः उर्वरतां वर्धयतः। रासायनिकोर्वरकं तु भूमेः गुणवत्तां नाशयति, अस्माकं स्वास्थ्यस्य अपि हानिं करोति इति सर्वे अङ्गीकुर्वन्ति। अतः गोसम्पद् न केवलं ग्रामस्य, अपि तु सम्पूर्णदेशस्य स्वास्थ्यस्य आर्थिकतायाः च आधारभूता अस्ति।
© examsnet.com
Question : 126 of 150
Marks:
+1,
-0
Go to Question: